हनुमान् चालीसा

दोहा
श्री गुरु चरण सरोज रज निजमन मुकुर सुधारि |
वरणौ रघुवर विमलयश जो दायक फलचारि ‖
बुद्धिहीन तनुजानिकै सुमिरौ पवन कुमार |
बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार् ‖

ध्यानम्
गोष्पदीकृत वाराशिं मशकीकृत राक्षसम् |
रामायण महामाला रत्नं वन्दे अनिलात्मजम् ‖
यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |
भाष्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ‖

चौपाई
जय हनुमान ज्ञान गुण सागर |
जय कपीश तिहु लोक उजागर ‖ 1 ‖

रामदूत अतुलित बलधामा |
अञ्जनि पुत्र पवनसुत नामा ‖ 2 ‖

महावीर विक्रम बजरङ्गी |
कुमति निवार सुमति के सङ्गी ‖3 ‖

कञ्चन वरण विराज सुवेशा |
कानन कुण्डल कुञ्चित केशा ‖ 4 ‖

हाथवज्र औ ध्वजा विराजै |
कान्थे मूञ्ज जनेवू साजै ‖ 5‖

शङ्कर सुवन केसरी नन्दन |
तेज प्रताप महाजग वन्दन ‖ 6 ‖

विद्यावान गुणी अति चातुर |
राम काज करिवे को आतुर ‖ 7 ‖

प्रभु चरित्र सुनिवे को रसिया |
रामलखन सीता मन बसिया ‖ 8‖

सूक्ष्म रूपधरि सियहि दिखावा |
विकट रूपधरि लङ्क जरावा ‖ 9 ‖

भीम रूपधरि असुर संहारे |
रामचन्द्र के काज संवारे ‖ 10 ‖

लाय सञ्जीवन लखन जियाये |
श्री रघुवीर हरषि उरलाये ‖ 11 ‖

रघुपति कीन्ही बहुत बडायी |
तुम मम प्रिय भरतहि सम भायी ‖ 12 ‖

सहस वदन तुम्हरो यशगावै |
अस कहि श्रीपति कण्ठ लगावै ‖ 13 ‖

सनकादिक ब्रह्मादि मुनीशा |
नारद शारद सहित अहीशा ‖ 14 ‖

यम कुबेर दिगपाल जहां ते |
कवि कोविद कहि सके कहां ते ‖ 15 ‖

तुम उपकार सुग्रीवहि कीन्हा |
राम मिलाय राजपद दीन्हा ‖ 16 ‖

तुम्हरो मन्त्र विभीषण माना |
लङ्केश्वर भये सब जग जाना ‖ 17 ‖

युग सहस्र योजन पर भानू |
लील्यो ताहि मधुर फल जानू ‖ 18 ‖

प्रभु मुद्रिका मेलि मुख माही |
जलधि लाङ्घि गये अचरज नाही ‖ 19 ‖

दुर्गम काज जगत के जेते |
सुगम अनुग्रह तुम्हरे तेते ‖ 20 ‖

राम दुआरे तुम रखवारे |
होत न आज्ञा बिनु पैसारे ‖ 21 ‖

सब सुख लहै तुम्हारी शरणा |
तुम रक्षक काहू को डर ना ‖ 22 ‖

आपन तेज तुम्हारो आपै |
तीनों लोक हाङ्क ते काम्पै ‖ 23 ‖

भूत पिशाच निकट नहि आवै |
महवीर जब नाम सुनावै ‖ 24 ‖

नासै रोग हरै सब पीरा |
जपत निरन्तर हनुमत वीरा ‖ 25 ‖

सङ्कट सें हनुमान छुडावै |
मन क्रम वचन ध्यान जो लावै ‖ 26 ‖

सब पर राम तपस्वी राजा |
तिनके काज सकल तुम साजा ‖ 27 ‖

और मनोरध जो कोयि लावै |
तासु अमित जीवन फल पावै ‖ 28 ‖

चारो युग परिताप तुम्हारा |
है परसिद्ध जगत उजियारा ‖ 29 ‖

साधु सन्त के तुम रखवारे |
असुर निकन्दन राम दुलारे ‖ 30 ‖

अष्ठसिद्धि नव निधि के दाता |
अस वर दीन्ह जानकी माता ‖ 31 ‖

राम रसायन तुम्हारे पासा |
साद रहो रघुपति के दासा ‖ 32 ‖

तुम्हरे भजन रामको पावै |
जन्म जन्म के दुख बिसरावै ‖ 33 ‖

अन्त काल रघुवर पुरजायी |
जहां जन्म हरिभक्त कहायी ‖ 34 ‖

और देवता चित्त न धरयी |
हनुमत सेयि सर्व सुख करयी ‖ 35 ‖

सङ्कट कटै मिटै सब पीरा |
जो सुमिरै हनुमत बल वीरा ‖ 36 ‖

जै जै जै हनुमान गोसायी |
कृपा करो गुरुदेव की नायी ‖ 37 ‖

जो शत वार पाठ कर कोयी |
छूटहि बन्दि महा सुख होयी ‖ 38 ‖

जो यह पडै हनुमान चालीसा |
होय सिद्धि साखी गौरीशा ‖ 39 ‖

तुलसीदास सदा हरि चेरा |
कीजै नाथ हृदय मह डेरा ‖ 40 ‖

दोहा
पवन तनय सङ्कट हरण – मङ्गल मूरति रूप् |
राम लखन सीता सहित – हृदय बसहु सुरभूप् ‖
सियावर रामचन्द्रकी जय | पवनसुत हनुमानकी जय | बोलो भायी सब सन्तनकी जय |

देवी महात्म्यम् देवि कवचम्

ॐ नमश्चण्डिकायै

न्यासः
अस्य श्री चण्डी कवचस्य | ब्रह्मा ऋषिः | अनुष्टुप् छन्दः |
चामुण्डा देवता | अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ‖

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच |
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ‖ 1 ‖

ब्रह्मोवाच |
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ‖ 2 ‖

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ‖ 3 ‖

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ‖ 4 ‖

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ‖ 5 ‖

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ‖ 6 ‖

न तेषां जायते किञ्चिदशुभं रणसङ्कटे |
नापदं तस्य पश्यामि शोकदुःखभयं न हि ‖ 7 ‖

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते |
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ‖ 8 ‖

प्रेतसंस्था तु चामुण्डा वाराही महिषासना |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ‖ 9 ‖

माहेश्वरी वृषारूढा कौमारी शिखिवाहना |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ‖ 10 ‖

श्वेतरूपधरा देवी ईश्वरी वृषवाहना |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ‖ 11 ‖

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ‖ 12 ‖

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ‖ 13 ‖

खेटकं तोमरं चैव परशुं पाशमेव च |
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ‖ 14 ‖

दैत्यानां देहनाशाय भक्तानामभयाय च |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ‖ 15 ‖

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे |
महाबले महोत्साहे महाभयविनाशिनि ‖ 16 ‖

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ‖ 17 ‖

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी |
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ‖ 18 ‖

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी |
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ‖ 19 ‖

एवं दश दिशो रक्षेच्चामुण्डा शववाहना |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ‖ 20 ‖

अजिता वामपार्श्वे तु दक्षिणे चापराजिता |
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ‖ 21 ‖

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी |
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ‖ 22 ‖

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ‖ 23 ‖

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |
अधरे चामृतकला जिह्वायां च सरस्वती ‖ 24 ‖

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका |
घण्टिकां चित्रघण्टा च महामाया च तालुके ‖ 25 ‖

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ‖ 26 ‖

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ‖ 27 ‖

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ‖ 28 ‖

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी |
हृदये ललिता देवी उदरे शूलधारिणी ‖ 29 ‖

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा |
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ‖ 30 ‖

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ‖ 31 ‖

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी |
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ‖ 32 ‖

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ‖ 33 ‖

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ‖ 34 ‖

पद्मावती पद्मकोशे कफे चूडामणिस्तथा |
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ‖ 35 ‖

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा |
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ‖ 36 ‖

प्राणापानौ तथा व्यानमुदानं च समानकम् |
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ‖ 37 ‖

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ‖ 38 ‖

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ‖ 39 ‖

गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ‖ 40 ‖

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ‖ 41 ‖

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु |
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ‖ 42 ‖

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः |
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ‖ 43 ‖

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ‖ 44 ‖

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ‖ 45 ‖

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् |
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ‖ 46 ‖

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः |
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः | 47 ‖

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ‖ 48 ‖

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ‖ 49 ‖

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः |
सहजा कुलजा माला डाकिनी शाकिनी तथा ‖ 50 ‖

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ‖ 51 ‖

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ‖ 52 ‖

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ‖ 53 ‖

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा |
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ‖ 54 ‖

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ‖ 55 ‖

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः |
लभते परमं रूपं शिवेन सह मोदते ‖ 56 ‖

‖ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ‖

शिवाष्टकम्

शिव अष्टकम्

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं  तम् ।
अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥३॥

तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शंभुमीशानमीडे ॥४।

गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्निगेहम् ।
परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शंभुमीशानमीडे ॥५॥

कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शंभुमीशानमीडे ॥६॥

शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनॆशस्य मित्रम् ।
अपर्णाकळत्रं चरित्रं विचित्रं शिवं शङ्करं शंभुमीशानमीडे ॥७॥

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शंभुमीशानमीडे ॥८॥

स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कळत्रं विचित्रैः समाराद्य मोक्षं प्रयाति ॥९॥

इति श्रीशिवाष्टकं संपूर्णम् ॥

श्री सूक्तम्

ॐ ‖ हिर’ण्यवर्णां हरि’णीं सुवर्ण’रतस्र’जां | ंद्रां हिरण्म’यीं क्ष्मीं जात’वेदो  आव’ह ‖

तां  आव’ जात’वेदो क्ष्मीमन’पगामिनी”म् |
स्यां हिर’ण्यं विंदेयं गामश्वं पुरु’षाहम् 

श्वपूर्वां र’थध्यां स्तिना”द-प्रबोधि’नीम् |
श्रियं’ देवीमुप’ह्वये श्रीर्मा देवीर्जु’षताम् 

कां सो”स्मितां हिर’ण्यप्राकारा’मार्द्रां ज्वलं’तीं तृप्तां र्पयं’तीम् |
द्मे स्थितां द्मव’र्णां तामिहोप’ह्वये श्रियम् 

ंद्रां प्र’भासां सा ज्वलं’तीं श्रियं’ लोके देवजु’ष्टामुदाराम् |
तां द्मिनी’मीं शर’णहं प्रप’द्येऽक्ष्मीर्मे’ नश्यतां त्वां वृ’णे 

दित्यव’र्णे तसोऽधि’जातो वस्पतिस्तव’ वृक्षोऽथ बिल्वः |
स्य फला’नि तसानु’दंतु मायांत’रायाश्च’ बाह्या अ’क्ष्मीः ‖

उपै’तु मां दे’वखः कीर्तिश्च मणि’ना ह |
प्रा
दुर्भूतोऽस्मि’ राष्ट्रेऽस्मिन् कीर्तिमृ’द्धिं दातु’ मे ‖

क्षुत्पि’पासाम’लां ज्येष्ठाम’क्षीं ना’शयाम्यहम् |
अभू’तिमस’मृद्धिं च सर्वां निर्णु’द मे गृहात् 

गंद्वारां दु’रार्षां नित्यपु’ष्टां करीषिणी”म् |
श्वरीग्^म्’ सर्व’भूतानां तामिहोप’ह्वये श्रियम् ‖

श्री”र्मे जतु | अक्षी”र्मे श्यतु |

मन’सः कामाकू’तिं वाचः त्यम’शीमहि |
शूनां रूपमन्य’स्य मयि श्रीः श्र’यतां यशः’ 

र्दमे’न प्र’जाभूता यि संभ’व र्दम |
श्रियं’ वासय’ मे कुले मातरं’ पद्ममालि’नीम् ‖

आपः’ सृजंतु’ स्निग्दानि चिक्लीत व’स मे गृहे |
नि च’ देवीं मारं श्रियं’ वासय’ मे कुले 

र्द्रां पुष्करि’णीं पुष्टिं पिंलाम् प’द्ममालिनीम् |
ंद्रां हिरण्म’यीं क्ष्मीं जात’वेदो  आव’ह 

र्द्रां यः करि’णीं ष्टिं सुर्णाम् हे’ममालिनीम् |
सू
र्यां हिरण्म’यीं क्ष्मीं जात’वेदो  आव’ह ‖

तां  आव’ जात’वेदो क्षीमन’पगामिनी”म् |
स्यां हिर’ण्यं प्रभू’तं गावो’ दास्योऽश्वा”न्, विंदेयं पुरु’षाहम् ‖

ॐ हादेव्यै च’ विद्महे’ विष्णुत्नी च’ धीमहि | तन्नो’ लक्ष्मीः प्रचोदया”त् ‖

श्री-र्वर्च’स्व-मायु’ष्य-मारो”ग्यमावी’धात् पव’मानं महीयते” | धान्यं नं शुं हुपु’त्रलाभं तसं”वत्सरं दीर्घमायुः’ ‖

ॐ शांतिः शांतिः शांतिः’ ‖

शिवकवचस्तॊत्रम् (Shivakavacha Stotram)

श्री शिवाय् नमः ॥

अस्य श्री शिवकवचस्तॊत्रमन्त्रस्य ब्रह्मा ऋषिः,
अनुष्टुप् छंदः,
श्रीसदाशिवरुद्रॊ दॆवता,
ह्रीं शक्तिः,
रं कीलकम्,
श्रीं ह्रीं क्लीं बीजम्,
श्रीसदाशिवप्रीत्यर्थॆ शिवकवचस्तॊत्रजपॆ विनियॊगः ।

अथ न्यासः ।

ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒं ह्रां सर्वशक्तिधाम्नॆ ईशानात्मनॆ अंगुष्ठाभ्यां नमः ।
ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒं नं रिं नित्यतृप्तिधाम्नॆ तत्पुरुषात्मनॆ तर्जनीभ्यां नमः ।
ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒंमं रुं अनादिशक्तिधाम्नॆ अघॊरात्मनॆ मध्यमाभ्यां नमः ।
ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒंशिं रैं स्वतंत्रशक्तिधाम्नॆ वामदॆवात्मनॆ अनामिकाभ्यां नमः ।
ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒं वां रौं अलुप्तशक्तिधाम्नॆ सद्यॊजातात्मनॆ कनिष्ठिकाभ्यां नमः ।
ऒं नमॊ भगवतॆ ज्वलज्ज्वालामालिनॆ ऒंयं रः अनादि शक्तिधाम्नॆ सर्वात्मनॆ करतलकरपृष्ठाभ्यां नमः ।

ऎवं हृदयादि ।

अथ ध्यानम् ॥

वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिंदमम् ।
सहस्रकरमत्युग्रं वन्दॆ शंभुमुमापतिम् ॥१॥

अथापरं सर्वपुराणगुह्यं निःशॆषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमॊचनं वक्ष्यामि शैवं कवचं हिताय तॆ ॥२॥

ऋषभ उवाच ॥

नमस्कृत्वा महादॆवं विश्वव्यापिनमीश्वरम् ।
वक्ष्यॆ शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥३॥

शुचौ दॆशॆ समासीनॊ यथावत्कल्पितासनः जितॆन्द्रियॊ ।
जितप्राणश्चिन्तयॆच्छिवमव्ययम् ॥४॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतॆजसा व्याप्तनभॊवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायॆत्परानन्दमयं महॆशम् ॥५॥

ध्यानावधूताखिलकर्मबन्धश्चिरं चिदानन्दनिमग्नचॆताः ।
षडक्षरन्याससमाहितात्मा शैवॆन कुर्यात्कवचॆन रक्षाम् ॥६॥

मां पातु दॆवॊऽखिलदॆवतात्मा संसारकूपॆ पतितं गभीरॆ ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनॊतु मॆ सर्वमघं हृदिस्थम् ॥ ७॥

सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्यॊतिर्मयानन्द घनश्चिदात्मा ।
अणॊरणीयानुरुशक्तिरॆकः स ईश्वरः पातु भयादशॆषात् ॥८॥

यॊ भूस्वरूपॆण बिभर्ति विश्वं पायात्स भूमॆर्गिरिशॊऽष्टमूर्तिः ।
यॊऽपांस्वरूपॆण नृणां करॊति सञ्जीवनं सॊऽवतु मां जलॆभ्यः ॥९॥

कल्पावसानॆ भुवनानि दग्ध्वा सर्वाणि यॊ नृत्यति भूरिलीलः ।
स कालरुद्रॊऽवतु मां दवाग्नॆर्वात्यादिभीतॆरखिलाच्च तापात् ॥१०॥

प्रदीप्तविद्युत्कनकावभासॊ विद्यावराभीतिकुठार पाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनॆत्रः प्राच्यां स्थितॊ रक्षतु मामजस्रम् ॥११॥

कुठारखॆटांकुशपाशशूलकपालढक्काक्ष गुणान्दधानः ।
चतुर्मुखॊ नीलरुचिस्त्रिनॆत्रः पायादघॊरॊ दिशि दक्षिणस्याम् ॥१२॥

कुन्दॆन्दु शंखस्फटिकावभासॊ वॆदाक्षमालावरदाभयाङ्गः ।
त्र्यक्षश्चतुर्वक्त्र उरु प्रभावः सद्यॊऽधिजातॊऽवतु मां प्रतीच्याम् ॥१३॥

वराक्षमाला ऽ भयटङ्कहस्तः सरॊजकिञ्जल्कसमानवर्णः ।
त्रिलॊचनश्चारुचतुर्मुखॊ मां पायादुदीच्यां दिशि वामदॆवः ॥१४॥

वॆदाभयॆष्टाङ्कुशपाशढङ्क कपालढक्काक्ष्ररशूलपाणिः ।
सितद्युतिः पंचमुखॊऽवतान्मामीशान ऊर्ध्वम् परमप्रकाशः ॥१५॥

मूर्धानमव्यान्मम चन्द्रमौलिर्भालं ममाव्यादथ भालनॆत्रः ।
नॆत्रॆ ममाव्याज्जगनॆत्रहारी नासां सदा रक्षतु विश्वनाथः ॥१६॥

पायाच्छ्रुती मॆ श्रुतिगीतकीर्तिः कपॊलमव्यात्सततं कपाली ।
वक्त्रम् सदा रक्षतु पंचवक्त्रॊ जिह्वां सदा रक्षतु वॆदजिह्वः ॥१७॥

कण्ठं गिरीशॊऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दॊर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमघान्तकॊऽव्यात् ॥१८॥

ममॊदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हॆरंभतातॊ मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरॊ मॆ ॥ १९॥

ऊरुद्वयं पातु कुबॆरमित्रॊ जानुद्वयं मॆ जगदीश्वरॊऽव्यात् ।
जंघायुगं पुङ्गवकॆतुरव्यात् पादौ ममाव्यात् सुरवन्द्यपादः ॥२०॥

महॆश्वरः पातु दिनादियामॆ मां मध्ययामॆऽवतु वामदॆवः ।
त्रिलॊचनः पातु तृतीययामॆ वृषध्वजः पातु दिनान्त्ययामॆ ॥२१॥

पायान्निशादौ शशिशॆखरॊ मां गंगाधरॊ रक्षतु मां निशीथॆ ।
गौरीपतिः पातु निशावसानॆ मृत्युञ्जयॊ रक्षतु सर्वकालम् ॥ २२॥

अन्तःस्थितं रक्षतु शङ्करॊ मां स्थाणुः सदा पातु बहिः स्थितं माम् ।
तदन्तरॆ पातु पतिः पशूनां सदाशिवॊ रक्षतु मां समन्तात् ॥२३॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायात्व्रजन्तं प्रमथाधिनाथः ।
वॆदान्त वॆद्यॊऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥२४॥

मार्गॆषु मां रक्षतु नीलकण्ठः शैलादिदुर्गॆषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासॆ पायान्मृगव्याध उदारशक्तिः ॥२५॥

कल्पान्तकालॊग्र पटुप्रकॊपस्फुटाट्ट्टटहासॊच्चलिताण्डकॊशः ।
घॊरारिसॆनार्णवदुर्निवार महाभयाद्रक्षतु वीरभद्रः ॥२६॥

पत्यश्वमातङ्गघटावरूथसहस्र लक्षायुत कॊटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडॊ घॊरकुठारधारया ॥२७॥

निहन्तु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥२८॥

दुःस्वप्न दुःशकुन दुर्गति दौर्मनस्य दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि।
उत्पात ताप विषभीतिमसद्ग्रहार्तिम्व्याधींश्च नाशयतु मॆ जगतामधीशः ॥२९॥

ऒं नमॊ भगवतॆ सदाशिवाय सकलतत्त्वात्मकाय सर्वमन्त्रस्वरूपाय
सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्त्वविदूराय ब्रह्मरुद्रावतारिणॆ
नीलकण्ठाय पार्वतीमनॊहरप्रियाय सॊमसूर्याग्निलॊचनाय भस्मॊद्धूलितविग्रहाय
महामणिमुकुटधारणाय माणिक्यभूषणाय स्रुष्टिस्थितिप्रळयकालरौद्रावताराय
दक्षाध्वरध्वंसकाय महाकालमॆदनाय मूलाधारैकनिलयाय तत्त्वातीताय
गङ्गाधराय सर्वदॆवाधिदॆवाय षडाश्रयाय वॆदान्तसाराय
त्रिवर्गसाधनायानन्तकॊटिब्रह्माण्डनायकायानन्त वासुकि तक्षक कार्कॊटक
शंख कुलिक पद्म महापद्मॆत्यष्ट महानागकुलभूषणाय प्रणवस्वरूपाय
चिदाकाशायाकाशादिस्वरूपाय ग्रहनक्षत्रमालिनॆ सकलाय कळङ्करहिताय
सकललॊकैककर्त्रॆ सकललॊकैकभर्त्रॆ सकललॊकैक संहर्त्रॆ सकललॊकैकगुरवॆ
सकललॊकैकसाक्षिणॆ सकलनिगमगुह्याय सकलवॆदान्तपारगाय सकललॊकैकवरप्रदाय
सकललॊकैकशङ्कराय शशाङ्कशॆखराय शाश्वतनिजावासाय निराभासाय
निरामयाय निर्मलाय निर्लॊभाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय
निष्कळङ्काय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरन्तराय निष्कारणाय
निरातङ्काय निष्प्रपञ्चाय निःसंगाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रॊधाय
निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भॆदाय निष्क्रियाय निस्तुलाय निःसंशयाय
निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय
तॆजॊरूपाय तॆजॊमयाय जय जय रुद्र महारौद्र महाभद्रावतार महाभैरव कालभैरव
कल्पान्तभैरव कपालमालाधर खट्वांग खड्ग चर्म पाशांकुश डमरुक शूल चाप
बाण गदा शक्ति भिण्डिपाल तॊमर मुसल मुद्गर पाश परिघ भुशुण्डि शतघ्नि चक्रायुध
भीषणकर सहस्रमुख दंष्ट्राकराळवदन विकटाट्ट्टटहास विस्फारित ब्रह्माण्डमण्डल
नागॆन्द्रकुण्डल नागॆन्द्रहार नागॆन्द्रवलय नागॆन्द्रचर्मधर मृत्युञ्जय त्र्यंबक त्रिपुरान्तक
विश्वरूप विरूपाक्ष विश्वॆश्वर वृषभवाहन विषविभूषण विश्वतॊमुख सर्वतॊमुख रक्ष
रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशय नाशय  चॊरभयमुत्सादयॊत्सादय
विषसर्पभयं शमय शमय चॊरान्मारय मारय मम शत्रूनुच्चाटयॊच्चाटय त्रिशूलॆन
विदारय विदारय कुठारॆण भिन्धि भिन्धि खड्गॆन छिन्धि छिन्धि खट्वाङ्गॆन विपॊथय विपॊथय
सुसलॆन निष्पॆषय निष्पॆषय बाणैः सन्ताडय सन्ताडय रक्षांसि भीषय भीषय
शॆषभूतानि विद्रावय विद्रावय कूष्माण्ड वॆताळ मारीच ब्रह्मराक्षसगणान् सन्त्रासय
सन्त्रासय ममाभयं कुरु कुरु वित्रस्तं मामाश्वासयाश्वासय नरकमहाभयान्मामुद्धारयॊद्धारय
अमृतकटाक्ष वीक्षणॆन माम् सञ्जीवय सञ्जीवय क्षुतृड्भ्यां मामाप्याययाप्यायय दुःखातुरं
मामानन्दयानन्दय शिवकवचॆन मामाच्छादयाच्छादय मृत्युञ्जय त्र्यंबक सदाशिव नमस्तॆ नमस्तॆ ।

ऋषभ उवाच ॥

इत्यॆतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधा प्रशमनं रहस्यं सर्वदॆहिनाम् ॥ ३०॥

यः सदा धारयॆन्मर्त्यः शैवं कवचमुत्तमम्।
न तस्य जायतॆ क्वापि भयं शंभॊरनुग्रहात् ॥३१॥

क्षीणायुः प्राप्तमॄत्युर्वा महारॊगहतॊऽपि वा ।
सद्यः सुखमवाप्नॊति दीर्घमायुश्च विन्दति ॥ ३२॥

सर्वदारिद्रशमनं सौमंगल्यविवर्धनम् ।
यॊ धत्तॆ कवचं शैवं स दॆवैरपि पूज्यतॆ ॥ ३३॥

महापातकसंघातैर्मुच्यतॆ चॊपपातकैः ।
दॆहान्तॆ मुक्तिमाप्नॊति शिववर्मानुभावतः ॥३४॥

त्वमपि श्रद्धया वत्स शैवं कवचसुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रॆयॊ ह्यवाप्स्यसि ॥ ३५॥

सूत उवाच ॥

इत्युक्त्वा ऋषभॊ यॊगी तस्मै पार्थिवसूनवॆ ।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ॥३६॥

पुनश्च भस्म संमन्त्र्य तदङ्गं परितॊऽस्पृशत् ।
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥३७॥

भस्मप्रभावात्संप्राप्त बलैश्वर्य धृति स्मृतिः ।
स राजपुत्रः शुशुभॆ शरदर्क इव श्रिया॥३८॥

तमाह प्राञ्जलिं भूयः स यॊगी नृपनन्दनम् ।
एष खड्गॊ मया दत्तस्तपॊमन्त्रानुभावितः ॥३९॥

शितधारमिमं खड्गं यस्मै दर्शयसॆ स्फुटम् ।
स सद्यॊ म्रियतॆ शत्रुः साक्षान्मृत्युरपि स्वयम् ॥४०॥

अस्य शंखस्य निर्ह्रादं यॆ शृण्वन्ति तवाहिताः ।
तॆ मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचॆतनाः ॥४१॥

खड्गशङ्खाविमौ दिव्यौ परमन्यौ विनाशिनौ ।
आत्मसैन्य स्वपक्षाणां शौर्यतॆजॊविवर्धनौ ॥४२॥

एतयॊश्च प्रभावॆण शैवॆन कवचॆन च ।
द्विषट्सहस्रनागानां बलॆन महतापि च ॥ ४३॥

भस्म धारणसामर्थ्याच्छत्रुसैन्यं विजॆष्यसि ।
प्राप्त सिंहासनं पित्र्यं गॊप्तासि पृथिवीमिमाम् ॥४४॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां संपूजितः सॊऽथ यॊगी स्वैरगतिर्ययौ ॥४५॥

इति श्रीस्कन्दपुराणॆ ब्रह्मॊत्तरखण्डॆ शिवकवचस्तॊत्रं संपूर्णम् ॥